श्रीरङ्गनाथपादुकासहस्रम्श्रीरङ्गनाथ दिव्यमणिपादुकाभ्यां नमः ।श्रीमते रामानुजाय नमः ।श्रीमते निगमान्त महादेशिकाय नमः ।श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी ।वेदान्त आचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ ३. प्रभावपद्धतिः (७०) वन्दे तद् रङ्गनाथस्य मान्यं, पादुकयो: युगम् ।उन्नतानाम्, अवनति:, नतानां यत्र च-उन्नतिः ॥1 निश्शेषम् अम्बरतलं, यदि पत्रिका स्यात्सप्त-अर्णवी यदि समेत्य, मषी भवित्री ।वक्ता सहस्रवदनः, पुरुषस् स्वयं चेत्लिख्येत रङ्गपति, पादुकयोः प्रभावः ॥ ३.२॥ ३२॥ वेद-उपबृंहण, …
Continue reading “श्रीरङ्गनाथपादुकासहस्रम् (३. प्रभावपद्धतिः (७०))”