श्रीरङ्गनाथपादुकासहस्रम्
श्रीरङ्गनाथ दिव्यमणिपादुकाभ्यां नमः ।
श्रीमते रामानुजाय नमः ।
श्रीमते निगमान्त महादेशिकाय नमः ।
श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्त आचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
३. प्रभावपद्धतिः (७०)
वन्दे तद् रङ्गनाथस्य मान्यं, पादुकयो: युगम् ।
उन्नतानाम्, अवनति:, नतानां यत्र च-उन्नतिः ॥1
निश्शेषम् अम्बरतलं, यदि पत्रिका स्यात्
सप्त-अर्णवी यदि समेत्य, मषी भवित्री ।
वक्ता सहस्रवदनः, पुरुषस् स्वयं चेत्
लिख्येत रङ्गपति, पादुकयोः प्रभावः ॥ ३.२॥ ३२॥
वेद-उपबृंहण, कुतूहलिना निबद्धं
विश्वम्भरा श्रुति भवेन, महर्षिणा यत् ।
व्यासेन यच्च, मधुसूदन पादरक्षे
द्वे चक्षुषी, त्वत् अनुभावं, अवेक्षितुं नः ॥ ३.३॥
प्रत्यक्षयन्ति, परिशुद्ध-धियो यथावत्
रामायणे रघुपुरन्दर पादरक्षे ।
शश्वत् प्रपञ्चितम् इदम्, परयैव वृत्त्या
सङ्क्षेप विस्तर दशासु, तव-अनुभावम् ॥ ३.४॥
अल्प श्रुतैरपि जनैर्, अनुमीयसे त्वं
रङ्गेशपादु नियतं, निगमोपगीता ।
सारं तत् अर्थम्, उपबृंहयितुं प्रणीतं
रामायणं तव महिम्नि, यतः प्रमाणम् ॥ ३.५॥
तिष्ठन्तु श्रुतयस् ततोऽपि महितं, जागर्ति तत्पादुके
तत् तादृक् प्रथनाय तावक गुण, ग्रामाय रामायणम्।
यस्य-आसीत्, अरविन्द सम्भव वधू, मञ्जीर शिञ्जारव
स्पर्धा दुर्धर, पादबद्ध भणतिर्, वल्मीक जन्मा कविः ॥ ३.६॥ ३६॥
भक्ति-प्रह्व पुरप्रभञ्जन, जटावाटी सनीड स्फुरत्
चूडारग्वध वासना परिमल, स्त्याने स्तुमः पादुके ।
रङ्ग क्षोणि, भृत् अङ्घ्रि पद्म युगली, पूर्ण प्रपत्तेः फलं
निश्चिन्वन्ति विपश्चितः शमधना, नित्यं यदुत्तंसनम् ॥ ३.७॥ ३७॥
मातर् माधव पादुके, तव गुणान्, क: स्तोतुम् अस्तोकधीः
कोटीरेषु यत् अर्पण प्रणयिनां, सेवा क्षणे स्वर्गिणाम् ।
अन्योन्यं क्षिपताम्, अहम् प्रथमिका, सम्मर्द कोलाहलं
विष्वक्सेन विहार वेत्र लतिका, कम्पश्चिरात् लुम्पति ॥ ३.८॥ ३८॥
योषिद् भूत, दृषन्ति अपोढ शकट, स्थेमानि वैमानिक
स्रोतस्विनि-उपलम्भनानि, भसित्-उदञ्चत् परीक्षिन्ति च ।
दूत्यादिष्वपि, दुर्वचानि पदयोः, कृत्यानि मत्वेव यत्
धत्ते तत् प्रणयं, तदेव चरण-त्राणं वृणे रङ्गिणः ॥9
वन्दे, तन् मधुकैटभारि पदयोर्, मित्रं पदत्र द्वयं
यत्तद्भक्ति भरानतेन शिरसा, यत्र क्वचित् बिभ्रति ।
द्वित्र ब्रह्म विनाडिका-अवधि पद, व्यत्यास शङ्काभर
त्रास-उत्कम्पदशा, विसंस्थुल धृति:, त्रैविष्टपानां गणः ॥ ३.१०॥ ४०॥
——–10/70 Prabhava Paddhati ——-
पद्माकान्त पद-अन्तरङ्ग विभव-उद्रिक्तं पदत्रं भजे
यद्भक्त्या नमतां, त्रिविष्टप सतां, चूडापदेष्वर्पितम् ।
नित्य-आपीत, नखेन्दु, दीधिति-सुधा, सन्दोहम् उच्चैर् वमति
अन्तर्नूनम्, अमान्तम् अन्तिक लसत्, शेषापटत् छद्मना ॥ ३.११॥ ४१॥
तद्विष्णोः परमं, पदत्र युगलं, त्रय्यन्त पर्यन्तगं
चिन्ता-अतीत विभूतिकं वितरतु, श्रेयांसि भूयांसि नः।
यत् विक्रान्ति दशा, समुत्थित पद, प्रस्यन्दि पाथस्विनी-
सख्येनेव सदा, नतस्य तनुते, मौलौ स्थितिं शूलिनः ॥ ३.१२॥ ४२॥
अम्बुनि(nya)-अम्बु निधे:, अनन्य गतिभि:, मीनैः कियद् गम्यते
क्लेशेनापि कियद्, व्यलङ्घि रभस-उत्तुङ्गैः प्लवङ्गेश्वरैः ।
विज्ञाता कियती, पुनः क्षितिभृता, मन्थेन गम्भीरता
किम् तैः केशव ! पादुका गुण महाम्बोधे, तटस्था वयम् ॥ ३.१३॥ ४३॥
पदकमल रजोभि:, वासिते रङ्गभर्तुः
परिचित निगमान्ते, पादुके धारयन्तः ।
अविदित परिपाकं, चन्द्रम् उत्तंसयन्ते
परिणत भुवनं तत्, पद्ममम् अध्यासते वा ॥ ३.१४॥
सकृदपि किल मूर्ध्ना, शार्ङ्गिणः पादुके त्वां
मनुजम् अनुवहन्तं, देहबन्ध व्यपाये ।
उपचरति यथार्हं, देव वर्गस् त्वदीयः
स तु नियमित भृत्यो, जोषम् आस्ते कृतान्तः ॥ ३.१५॥
पदसरसिजम् एतत्, पादुके रङ्गभर्तुः
प्रतिनिधि पदवीं ते, गाहते स्वेन भूम्ना ।
तदिदम् अपरथा चेत्, तिष्ठत: तस्य नित्यं
कथमिव विदितार्था:, त्वां भजन्ते महान्तः ॥ ३.१६॥
श्रुति शिरसि निगूढं, कर्मणां चोदितानां
त्वत् अवधि विनिवेशं, न अधिगन्तुं क्षमाणाम् ।
परिहसति मुरारेः, पादुके बालिशानां
पशुवध परिशेषात्, पण्डितो नाम यज्ञान् ॥ ३.१७॥
जनयितुम् अलम्-अर्घ्यम्, दैत्यजित् पादरक्षे
नमति महति देवे, नाकसिन्धोर् विशीर्णाः ।
मुहुर् अहिपति चूडा, मौलि रत्न-अभिघातात्
परिणत लघिमानः, पाथसाम् ऊर्मयस्ते ॥ ३.१८॥
पदसरसिजयोस् त्वम्,पादुके रङ्गभर्तु:
मनसि मुनि जनानां, मौलिदेशे श्रुतीनाम् ।
वचसि च सुकवीनां, वर्तसे नित्यम् एका
तदिदम् अवगतं ते, शाश्वतं वैश्व रूप्यम् ॥ ३.१९॥ ४९॥
परिसर विनतानां, मूर्ध्नि दुर्वर्ण पङ्क्तिं
परिणमयसि शौरेः, पादुके त्वं सुवर्णम् ।
कुहक जन विदूरे, सत्पथे लब्ध वृत्तेः
क्क नु खलु, विदितस् ते, कोऽप्यसौ धातुवादः ॥ ३.२०॥ ५०॥
——–20/70 Prabhava Paddhati ——-
बलि मथन विहाराद्, वर्धमानस्य विष्णो:
अखिलम् अतिपतद्भिर् विक्रमैर् अप्रमेयः ।
अवधिम् अनधिगच्छन्, पापराशिर् मदीयः
समजनि पदरक्षे, सावधिस् त्वन्महिम्ना ॥ ३.२१॥
तटभुवि यमुनाया:, तस्थुषी यन्निवेशात्
वहति निगम शाखा, वैभवं नीप शाखा ।
पदकमलम् इदं तत्, पादुके रङ्गभर्तु:
त्वयि भजति विभूतिं, पश्य शाखानुशाखाम् ॥ ३.२२॥ ५२॥
शिरसि विनिहितायां, भक्ति नम्रे भवत्यां
सपदि तनुभृतस् ताम्, उन्नतिं प्राप्नुवन्ति ।
मधुरिपु पदरक्षे, यद् वशेनैव तेषाम्
अनितर सुलभं तद्,धाम हस्तापचेयम् ॥ ३.२३॥
सकृद् अपि भुवने-ऽस्मिन्, शार्ङ्गिणः पादुके त्वाम्
उपनिषत् अनुकल्पैर्, उत्तमाङ्गैर् दधानाः ।
नरकम् इव महान्तो, नाकम् उल्लङ्घयन्तः
परिषदि निविशन्ते, प्राक्तनानां गुरूणाम् ॥ ३.२४॥
शम दम गुण, दान्त-उदन्त वैदेशिकानां
शरणम् अशरणानां, मादृशां माधवस्य ।
पदकमलम् इदं ते, पादुके रक्ष्यम् आसीत्
अनुदय निधनानाम्, आगमानां निधानम् ॥ ३.२५॥
परिचित पदपद्मां, पादुके रङ्गिण: त्वां
त्रिभुवन महनीयां, सादरं धारयन्तः ।
निजशिरसि निलीनं, देवि मन्दार माल्यं
निगम परिमलैस्ते, वासयन्तीव देवाः ॥ ३.२६॥
कनकसरित्-अनूप, कल्पवृक्षस्य भूष्णोः
पद किसलय लग्ना, पादुके मञ्जरी त्वम् ।
परिणति मधुराणां, या फलानां सवित्री
वहसि निगम बृन्दैः, सम्पदं षट्पदानाम् ॥ ३.२७॥
परिकलयसि चेन्मां, पद्मवासा निषेव्ये
पदकमल युगे त्वं, पादुके रङ्गभर्तुः ।
अविदित निगमानां, नूनम् अस्मादृशानाम्
अघटित, घटनी ते, शक्ति आविष्कृता स्यात् ॥ ३.२८॥ ५८॥
श्रुति शत शिरश् चूडा-अपीडे, निपीडयितुं क्षमे
दुरित सरिताम्, ओघान् एतान्, अमोघ विसर्पिणः ।
क्रम परिणमत्, वेधःश्रेणी शिखामणि, घट्टना-
-मसृणित तले, रङ्ग क्षोणी भृतो, मणिपादुके ॥ ३.२९॥ ५९॥
जगत् जनन, रक्षण क्षपण, सङ्गिनो रङ्गिणः
पवित्रतमम् आद्रिये, भगवतः पदत्र द्वयम् ।
शिवत्व करण, क्षम त्रिदिव, सिन्धु सम्बन्धिनं
प्रधाव्य चरणं, निजं प्रणिदधाति, यत्र प्रभुः ॥ ३.३०॥ ६०॥
——–30/70 Prabhava Paddhati ——-
यत् अध्वर भुजां शिरः, पदयुगं च रङ्गेशितु:
दृढं घटयितुं, क्षमं भवति, शेष शेषित्वतः ।
शिरस्त्रम् इदम् अस्तु मे, दुरित सिन्धु मुष्टिन्धयं
कदध्व विहति क्षमं, किमपि तत्पदत्र द्वयम् ॥ ३.३१॥ ६१॥
समुत्क्षिपति चेतसि, स्थिर निवेशिता तावकी
मुकुन्द मणिपादुके, मुहुर् उपासना वासना ।
उदर्क परिकर्कशान्, उपरि पर्वणा खर्वितान्
अनर्थ शत गर्भितान्, अमर शम्भली विभ्रमान् ॥ ३.३२॥ ६२॥
विगाहन्ते, रङ्ग क्षितिपति, पदत्रायिणि सकृत्
वहन्तस्त्वाम्, अन्तर् विनिहित, कुचेल व्यतिकराः ।
मदु-उद्दाम स्तम्बेरम, करट निर्यन्, मधुझरी-
परीवाह प्रेङ्खत्, भ्रमर मुखराम् , अङ्गण भुवम् ॥ ३.३३॥ ६३॥
अधिदैवतम्, आपतत्सु कल्पेषु, अधिकारं भजतां, पितामहानाम् ।
अभिरक्षतु, रङ्गभर्तुर् एषा, करुणा काचन, पादुकामयी नः ॥ ३.३४॥ ६४॥
ध्रुवम् इन्द्रिय, नाग श्रृङ्खला वा, निरय द्वार, निवारण अर्गला वा ।
अनपाय पद-आधिरोहणी वा, मम रङ्गेश, विहार पादुके त्वम् ॥ ३.३५॥ ६५॥
शरणागत, सार्थ वाह शीलां, श्रुति सीमन्त, पद प्रसादन-अर्हाम् ।
अधिरङ्गम्, उपास्महे मुरारेर्, महनीयां तपनीय, पादुके त्वाम् ॥ ३.३६॥ ६६॥
इह ये भवतीं, भजन्ति भक्त्या
कृतिनः केशव, पादुके नियुक्ताः ।
कथयाम्ब, तिरोहितं तृतीयं नयनं
त्रीणि मुखानि वा, किम् एषाम् ॥ ३.३७॥ ६७॥
मधुवैरि परिग्रहेषु नित्यं, क्षमया त्वं मणिपादुके समेता ।
तदपि क्षमसे, न किं परेषां, त्रिदशाधीश्वर शेखरे निवेशम् ॥ ३.३८॥ ६८॥
द्वितयं प्रतियन्ति रङ्गभर्तुः, कतिचित् काञ्चन पादुके शरण्यम् ।
अभयान्वितम्, अग्रिमं करं वा, भवती शेखरितं, पदाम्बुजं वा ॥ ३.३९॥ ६९॥
भरताश्वसनेषु, पाद शब्दं, वसुधा श्रोत्र, समुद्भवो मुनीन्द्रः ।
पठति त्वयि, पादुके ततस्त्वं, नियतं रामपदात्, अभिन्न भूमा ॥ ३.४०॥ ७०॥
——–40/70 Prabhava Paddhati ——-
मकुटेषु निविश्य दिक्पतीनां, पदमेव प्रतिपद्य रङ्गभर्तुः ।
परिरक्षसि, पादुके पदं त्वं, क्व नु भिद्येत, गरीयसां प्रभावः ॥ ३.४१॥ ७१॥
जगताम्, अभिरक्षणे त्रयाणाम्, अधिकारं मणिपादुके वहन्त्योः ।
युवयोः परिकर्म, कोटि लग्नं, चरण द्वन्द्वम्, अवैमि रङ्गभर्तुः ॥ ३.४२॥ ७२॥
पदरक्षिणि वत्सला निकामं, रघुवीरस्य पदाम्बुजात् अपि त्वम् ।
यदसौ भरतस्, त्वयां-अंशवत्त्वात्, न पुनस् तादृशम्, अन्वभूद् वियोगम् ॥ ३.४३॥ ७३॥
अभिगम्य मुकुन्द पादुके त्वाम्, अपनीत-आतप, वारणैः शिरोभिः ।
हरितां पतयो, दुरापम् अन्यै:, अनघ शायम्, अवाप्नुवन्ति भोगम् ॥ ३.४४॥ ७४॥
अपहाय सितासितान्-उपायान्, अरविन्द-ईक्षण, पादुके महान्तः ।
त्वत् अनन्यतया, भजन्ति वृत्तिं, त्वत् असाधारण, भोग स-अभिलाषाः ॥ ३.४५॥ ७५॥
प्रणमन्ति न वा, विधे: विपाकाद्, य इमे रङ्ग नरेन्द्र, पादुके त्वाम् ।
उपजातम्, अनुत्तमाङ्गम्ए-षाम्, उभयेषामपि, चित्रम् उत्तमाङ्गम् ॥ ३.४६॥ ७६॥
तव केशवपादुके, प्रभावो, मम दुष्कर्म च, ननु अनन्तसारे ।
नियमेन तथाऽपि, पश्चिमस्य, प्रथमेन-एव पराभवं प्रतीमः ॥ ३.४७॥ ७७॥
अस्त्र भूषण, तया-एव केवलं, विश्वमेतत् अखिलं, बिभर्ति यः ।
अखिलं-ऐन, मणिपादुके त्वया, सोऽपि शेखर, तया-एव धार्यते ॥ ३.४८॥ ७८॥
राम पाद, सहधर्म चारिणीं, पादुके निखिल, पातकच्छिदम् ।
त्वाम् अशेष जगताम् अधीश्वरीं, भावयामि भरताधि देवताम् ॥ ३.४९॥ ७९॥
चूडा कपाल, व्यतिषङ्ग दोषं, विमोचयिष्यन्-इव, विष्णु पद्याः ।
कृत-आदरः केशव, पादरक्षे बिभर्ति बालेन्दु, विभवण: त्वाम् ॥ ३.५०॥ ८०॥
——–50/70 Prabhava Paddhati ——-
त्वयैव नित्यं मणि पादरक्षे, राजन्वती, सृष्टिर्-इयं प्रजानाम् ।
स्त्री राज्य दोष, प्रशमाय नूनं, निर्दिश्यसे, नाथ विशेषणेन ॥ ३.५१॥ ८१॥
बिभर्षि नित्यं, मणिपादुके त्वं, विश्वम्भरं धाम, निजेन भूम्ना ।
तव-अनुभावश् चुलकी कृतोऽयं, भक्तैर्-अजस्रं, भवतीम् दधानैः ॥ ३.५२॥ ८२॥
परस्य पुंसः, पद सन्निकर्षे, तुल्य-अधिकारां, मणिपादुके त्वाम् ।
उत्तंसयन्ति, स्वयम् उत्तमाङ्गैः, शेषा समं, शेष गरुत्मदाद्याः ॥ ३.५३॥ ८३॥
मुकुन्द पादाम्बुज, धारिणि त्वां, मोहात् अनुत्तं, सयतां जनानाम् ।
मूर्ध्नि स्थिता, दुर्लिपयो भवन्ति, प्रशस्त वर्ण-अवलयस् तदीयाः ॥ ३.५४॥ ८४॥
भूमिश् श्रुतीनां, भुवनस्य धात्री, गुणैर् अनन्ता, विपुला विभूत्या ।
स्थिरा स्वयं, पालयितुं, क्षमा नः, सर्वं सहा, शौरि! पदावनि त्वम् ॥ ३.५५॥ ८५॥
स्थैर्यं, कुल क्षोणि भृतां, विधत्से
शेषादयस् त्वां, शिरसा वहन्ति ।
पदप्रसूता, परमस्य पुंसः
पृथ्वी महिम्ना, मणिपादुके त्वम् ॥ ३.५६॥ ८६॥
दैत्याधिपानां, बलिनां किरीटा(:)
निक्षेपणं ते, यदि नाभ्यनन्दन् ।
रङ्गेश पादावनि, रङ्गधाम्नः
सोपानतां, प्राप्य वहन्ति-अमी त्वाम् ॥ ३.५७॥
शेषो गरुत्मान्, मणि पादपीठी
त्वं चेति पादावनि, विश्वमान्याः ।
तुल्य-अधिकारा, यदि किन्तु सन्त:
त्वामेव नित्यं, शिरसा वहन्ति ॥ ३.५८॥ ८८॥
परस्य पुंसः, परमं पदं तत्
बिभर्षि नित्यं, मणिपादुके त्वम् ।
अन्यादृशां, व्योम सदां पदानि
त्वयि आयतन्ते, यदिदं न चित्रम् ॥ ३.५९॥ ८९॥
पादौ मुरारेः, शरणं प्रजानां, तयोस् तत्-एव-असि, पादावनि त्वम् ।
शरण्यताया:, तवं अनन्य रक्षा, सन्दृश्यसे, विश्रम भूमिर् एका ॥ ३.६०॥ ९०॥
——–60/70 Prabhava Paddhati ——-
अन्येषु पद्मा कमलासन अद्यै: रङ्गेषु रङ्गाधिपतेः श्रितेषु ।
पदावनि त्वाम् अधिगम्य जातं पदं मुरारे: अधिदैवतं नः ॥ ३.६१॥ ९१॥
क्षणं सरोज ईक्षण पादुके यः कृतादरः किङ्कुरुते भवत्याः ।
अकिञ्चिनस्यापि भवन्ति शीघ्रं भ्रूकिङ्करा: तस्य पुरन्दराद्याः ॥ ३.६२॥ ९२॥
वहन्ति ये माधव पादुके त्वाम् उह्यन्त एते दिवि निर्विघाताः ।
हंसेन नित्यं शरदभ्र भासा कैलास गौरेण ककुद्मता वा ॥ ३.६३॥ ९३॥
रुद्रं श्रितो देवगणः स रुद्रः
पद्मासनं सोऽपि च पद्मनाभम् ।
स त्वाम् अनन्तो न पुन: त्वम् अन्यं
क एष पादावनि ते प्रभावः ॥ ३.६४॥ ९४॥
परस्य धाम्नः प्रतिपादन अर्हां वदन्ति विद्यां मणिपादुके त्वाम् ।
यत: तव एव अधिगमे प्रजानां दूरी भवति उत्तर पूर्वम् अहः ॥ ३.६५॥ ९५॥
धन्या मुकुन्दस्य पद अनुषङ्गाद् धनीयता येन समर्चिता त्वम् ।
वास: तदीयो मणि पादरक्षे लक्ष्म्या ऽलकाम् अपि अधरी करोति ॥ ३.६६॥ ९६॥
पदेन विष्णोः किमुत इतरेषां
विसृज्य सङ्गं समुपासते त्वाम् ।
करोषि तान् किं त्वम् अपेत कामान्
कालेन पादावनि सत्य कामान् ॥ ३.६७॥ ९७॥
अभ्यास योगेन निगृह्यमाणै: अन्तर्मुखै: आत्मविदो मनोभिः ।
मात: त्वया गुप्त पदं प्रभावात् अन्वेषयन्ति आगमिकं निधानम् ॥ ३.६८॥ ९८॥
मूर्ध्ना दधानां मणिपादुके त्वाम् उत्तंसितं वा पुरुषं भवत्या ।
वदन्ति केचित् वयम् आमनाम: त्वामेव साक्षात् अधिदैवतं नः ॥ ३.६९॥ ९९॥
मूर्ध्ना सताम् अधस्तात् उपरि च विष्णोः पदेन सङ्घटिताम् ।
अदवीयसीं विमुक्तेः पदवीम् अवयन्ति पादुके भवतीम् ॥ ३.७०॥ १००॥
——–70/70 Prabhava Paddhati ——-
इति कवितार्किक सिंहस्य सर्व तन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
श्रीमद्वेदान्त आचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे प्रभावपद्धतिः तृतीया ॥