The following are the list of additional shlokas chanted during the parayanam of Sriman Narayaneeyam. While most are from Srimad Bhagavatam, some are also from other texts like Krishna Karnamrutham etc.
Also, at the end of the corresponding Skandam of Srimad Bhagavantam, Namaskara shlokam from dasakam 98 is chanted.
After Daskam 3,1st Skandam of Bhagavatam ends– D98.1 to be chanted
After Dasakam 7,end of 2nd Skandam– D98.2 to be chanted
After D15 – D98.3
After D17.11 (Dhruva Stuti) – SB.4.9.6
योऽन्तःप्रविश्य मम वाचमिमां प्रसुप्तां
सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना ।
अन्यांश्च हस्तचरणश्रवणत्वगादीन्
प्राणान् नमो भगवते पुरुषाय तुभ्यम् ॥
After D19 – D98.4
After D21 – D98.5
After D23 – D98.6
After D25.10 (Narasimha avataram)
उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्।
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥
After D25 – D98.7
After D32 – D98.8
Before starting Rama avataram – SB.11.5.33, 34
ध्येयं सदा परिभवघ्नं अभीष्टदोहं
तीर्थास्पदं शिव विरिञ्चिनुतं शरण्यम् ।
भृत्यार्तिहं प्रणतपाल भवाब्धिपोतं
वन्दे महापुरुष ते चरणारविन्दम् ॥३३॥
त्यक्त्वा सुदुस्त्यज सुरेप्सित राज्यलक्ष्मीं
धर्मिष्ठ आर्यवचसा यदगादरण्यम् ।
मायामृगं दयितयेप्सितं अन्वधावद्
वन्दे महापुरुष ते चरणारविन्दम् ॥३४॥
After D36 – D98.9
After D37-S10 – Garbha Stuti – SB.10.2.26
सत्यव्रतं सत्यपरं त्रिसत्यं
सत्यस्य योनिं निहितं च सत्ये ।
सत्यस्य सत्यमृत सत्यनेत्रं
सत्यात्मकं त्वां शरणं प्रपन्नाः ॥ २६॥
D38-S2 – Sri Krishna avataram – SB.10.3.9 & 10
तमद्भुतं बालकमम्बुजेक्षणं
चतुर्भुजं शङ्ख गदाद् युदायुधम् ।
श्रीवत्सलक्ष्मं गलशोभि कौस्तुभं
पीताम्बरं सान्द्र पयोद सौभगम् ॥ ९॥
महार्हवैदूर्य किरीट कुण्डलत्विषा
परिष्वक्त सहस्रकुन्तलम् ।
उद्दाम काञ्च्यङ् गद कङ्कणादिभि-
र्विरोचमानं वसुदेव ऐक्षत ॥ १०॥
After D48.7 – SB.10.10.38 – (NalaKubara & Manigreeva Stuti)
वाणी गुणानुकथने श्रवणौ कथायां
हस्तौ च कर्मसु मनस्तव पादयोर्न: ।
स्मृत्यां शिरस्तव निवासजगत्प्रणामे
दृष्टि: सतां दर्शनेऽस्तु भवत्तनूनाम् ॥ ३८ ॥
Before starting D52 – SB.10.13.11
बिभ्रद्वेणुं जठरपटयोः शृङ्गवेत्रे च कक्षे
वामे पाणौ मसृण कवलं तत्फलान्यङ्गुलीषु ।
तिष्ठन्मध्ये स्वपरि सुहृदो हासयन् नर्मभिः स्वैः
स्वर्गे लोके मिषति बुभुजे यज्ञ भुग्बालकेलिः ॥
D52-S10 – SB.10.14.32
अहोभाग्यं अहोभाग्यं नन्दगोप व्रजौकसाम् ।
यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ ३२॥
Before starting Venu Ghaanam D59 – SB.10.21.5
बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं
बिभ्रद्वासः कनककपिशं वैजयन्तीं च मालाम् ।
रन्ध्रान् वेणोरधर सुधया पूरयन् गोपवृन्दै:
वृन्दारण्यं स्वपद रमणं प्राविशद् गीतकीर्तिः ॥
D59-S10–Krishna Karnamrutham – 2.22
व्यत्यस्त पादम् अवतंसित बर्हिबर्हम्
साची कृतानन निवेशित वेणुरन्ध्रम्।
तेजः परम् परम कारुणिकम् पुरस्तात्
प्राण प्रयाण समये मम सन्निधत्ताम्॥ २-२२
D60-S2 – SB.10.22.4
कात्यायनि महामाये महायोगिन्यधीश्वरि ।
नन्दगोपसुतं देवि पतिं मे कुरु ते नमः ।।
D67-S8 – SB.10.30.44 & 45
तन्मनस्का: तदालापा: तद्विचेष्टा: तदात्मिकाः ।
तद्गुणानेव गायन्त्यो नात्मा गाराणि सस्मरुः ॥
पुनः पुलिनमागत्य कालिन्द्याः कृष्णभावनाः ।
समवेता जगुः कृष्णं तदागमन काङ्क्षिताः ॥
D76-S11 – SB.10.47.63
वन्दे नन्द व्रजस्त्रीणां पादरेणुं अभीक्ष्णशः ।
यासां हरि कथोद् गीतं पुनाति भुवनत्रयम् ॥
D85-S5 – (Sharanagathi by 20,800 Kings) – SB.10.73.16
कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणतक्लेश नाशाय गोविन्दाय नमो नमः ॥ १६॥
D86-S4- Draupadi Sharanagathi (Vastra avataram)
हा कृष्ण द्वारका वासिन् क्वासि देवकी नन्दन |
इमांऽवस्थां सम्प्राप्तं अनन्तम् किं उपेक्ष्यसि ||
शङ्ख चक्र गदा पाणे द्वारका निलयाच्युत |
गोविंद पुंडरीकाक्ष रक्ष मां शरणागतं ||
D97.7- Bala Mukunda Swamy darshan to Markandeyar
करारविन्देन पदारविन्दं
मुखारविन्दे विनिवेशयन्तम् ।
वटस्य पत्रस्य पुटे शयानं
बालं मुकुन्दं मनसा स्मरामि ॥
After D90 – D98.10
After D97.4.2nd line (end of ekadasa skandam) – D98.11 to be chanted
नारायण अखिल गुरो भगवन् नमस्ते ।