Namaskara Shlokas

The following are the Namasakara shlokas of Sriman Narayaneeyam. While doing Parayanam of dasakam 98, these shlokas are chanted along with a namaskaram for each shloka.

यस्मिन्नेतद्विभातं यत इदमभवत्
येन चेदं य एत-द्योऽस्मादुत्तीर्णरूप:
खलु सकलमिदं भासितं यस्य भासा ।
यो वाचां दूरदूरे पुनरपि मनसां
यस्य देवा मुनीन्द्रा:
नो विद्युस्तत्त्वरूपं किमु पुनरपरे
कृष्ण तस्मै नमस्ते ॥98-1॥

जन्माथो कर्म नाम स्फुटमिह गुणदोषादिकं
वा न यस्मिन्
लोकानामूतये य: स्वयमनुभजते
नि मायानुसारी ।
विभ्रच्छक्तीररूपोऽपि च
बहुतररूपोऽवभात्यद्भुतात्मा
तस्मै कैवल्यधाम्ने
पररसपरिपूर्णाय विष्णो नमस्ते ॥२॥

नो तिर्यञ्चन्न मर्त्यं न च सुरमसुरं
न स्त्रियं नो पुंमांसं
न द्रव्यं कर्म जातिं गुणमपि
सदसद्वापि ते रूपमाहु: ।
शिष्टं यत् स्यान्निषेधे
सति निगमशतैर्लक्षणावृत्तितस्तत्
कृच्छ्रेणावेद्यमानं
परमसुखमयं भाति तस्मै नमस्ते ॥३॥

मायायां बिम्बितस्त्वं
सृजसि महदहङ्कारतन्मात्रभेदै-
र्भूतग्रामेन्द्रियाद्यैरपि
सकलजगत्स्वप्नसङ्कल्पकल्पम् ।
भूय: संहृत्य सर्वं कमठ इव
पदान्यात्मना कालशक्त्या
गम्भीरे जायमाने तमसि
वितिमिरो भासि तस्मै नमस्ते ॥४॥

शब्दब्रह्मेति कर्मेत्यणुरिति
भगवन् काल इत्यालपन्ति
त्वामेकं विश्वहेतुं सकलमयतया
सर्वथा कल्प्यमानम् ।
वेदान्तैर्यत्तु गीतं पुरुष
परचिदात्माभिधं तत्तु तत्त्वं
प्रेक्षामात्रेण मूलप्रकृतिविकृतिकृत्
कृष्ण तस्मै नमस्ते ॥५॥

सत्त्वेनासत्तया वा न च खलु
सदसत्त्वेन निर्वाच्यरूपा
धत्ते यासावविद्या
गुणफणिमतिवद्विश्वदृश्यावभासम् ।
विद्यात्वं सैव याता
श्रुतिवचनलवैर्यत्कृपास्यन्दलाभे
संसारारण्यसद्यस्त्रुटन
परशुतामेति तस्मै नमस्ते॥६॥

भूषासु स्वर्णवद्वा जगति
घटशरावादिके मृत्तिकाव-
त्तत्त्वे सञ्चिन्त्यमाने स्फुरति
तदधुनाप्यद्वितीयं वपुस्ते ।
स्वप्नद्रष्टु: प्रबोधे तिमिरलयविधौ
जीर्णरज्जोश्च यद्व-
द्विद्यालाभे तथैव स्फुटमपि
विकसेत् कृष्ण तस्मै नमस्ते ॥७॥

यद्भीत्योदेति सूर्यो दहति च दहनो
वाति वायुस्तथान्ये
यद्भीता: पद्मजाद्या:
पुनरुचितबलीनाहरन्तेऽनुकालम् ।
येनैवारोपिता: प्राङ्निजपदमपि ते
च्यावितारश्च पश्चात्
तस्मै विश्वं नियन्त्रे वयमपि भवते
कृष्ण कुर्म: प्रणामम् ॥८॥

त्रैलोक्यं भावयन्तं
त्रिगुणमयमिदं त्र्यक्षरस्यैकवाच्यं
त्रीशानामैक्यरूपं त्रिभिरपि
निगमैर्गीयमानस्वरूपम् ।
तिस्रोवस्था विदन्तं
त्रियुगजनिजुषं त्रिक्रमाक्रान्तविश्वं
त्रैकाल्ये भेदहीनं
त्रिभिरहमनिशं योगभेदैर्भजे त्वाम् ॥९॥

सत्यं शुद्धं विबुद्धं
जयति तव वपुर्नित्यमुक्तं निरीहं
निर्द्वन्द्वं निर्विकारं
निखिलगुणगणव्यञ्जनाधारभूतम् ।
निर्मूलं निर्मलं
तन्निरवधिमहिमोल्लासि निर्लीनमन्त-
र्निस्सङ्गानां मुनीनां
निरुपमपरमानन्दसान्द्रप्रकाशम् ॥१०॥

दुर्वारं द्वादशारं
त्रिशतपरिमिलत्षष्टिपर्वाभिवीतं
सम्भ्राम्यत् क्रूरवेगं
क्षणमनु जगदाच्छिद्य सन्धावमानम् ।
चक्रं ते कालरूपं
व्यथयतु न तु मां त्वत्पदैकावलम्बं
विष्णो कारुण्यसिन्धो
पवनपुरपते पाहि सर्वामयौघात् ॥98-11॥

यत्तु त्रैलोक्यरूपं
दधदपि च ततो निर्गतोऽनन्तशुद्ध-
ज्ञानात्मा वर्तसे त्वं
तव खलु महिमा सोऽपि तावान् किमन्यत् ।
स्तोकस्ते भाग एवाखिल
भुवनतया दृश्यते त्र्यंशकल्पं
भूयिष्ठं सान्द्रमोदात्मकमुपरि
ततो भाति तस्मै नमस्ते ॥99-9॥

अव्यक्तं ते स्वरूपं
दुरधिगमतमं तत्तु शुद्धैकसत्त्वं
व्यक्तं चाप्येतदेव
स्फुटममृतरसाम्भोधिकल्लोलतुल्यम् ।
सर्वोत्कृष्टामभीष्टां तदिह
गुणरसेनैव चित्तं हरन्तीं
मूर्तिं ते संश्रयेऽहं
पवनपुरपते पाहि मां कृष्ण रोगात् ॥99-10॥

नारायण अखिल गुरो भगवन् नमस्ते ।

Leave a comment

Design a site like this with WordPress.com
Get started